|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.54. अध्यायः 054
Mahabharata - Adi Parva - Chapter Topics
आस्तीकस्य स्वमात्रा सवादः। वासुकेराश्वासनं च॥ 1 ॥ आस्तीकस्य सर्पसत्रं प्रति गमनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-54-0x(255)(2211)
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा।
वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥ 1-54-1(2212)
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्॥ 1-54-2(2213)
आस्तीक उवाच। 1-54-3x(256)
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा॥ 1-54-3(2214)
सौतिरुवाच। 1-54-4x(257)
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।
भगिनी नागराजस्य जरत्कारुरविक्लबा॥ 1-54-4(2215)
जरत्कारुरुवाच। 1-54-5x(258)
पन्नगानामशेषाणां माता कद्रूरिति श्रुता।
तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥ 1-54-5(2216)
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम।
विनतार्थाय पणिते दासभावाय पुत्रकाः॥ 1-54-6(2217)
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥ 1-54-7(2218)
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः।
एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च॥ 1-54-8(2219)
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा।
अमृते मथिते तात देवाञ्छरणमीयिवान्॥ 1-54-9(2220)
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥ 1-54-10(2221)
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्।
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति॥ 1-54-11(2222)
देवा ऊचुः। 1-54-12x(259)
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्।
अभिशापः स मातुस्तु भगवन्न भवेत्कथम्॥ 1-54-12(2223)
ब्रह्मोवाच। 1-54-13x(260)
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्॥ 1-54-13(2224)
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः।
प्रादान्माममरप्रख्य तव पित्रे महात्मने॥ 1-54-14(2225)
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः।
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि॥ 1-54-15(2226)
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्।
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे॥ 1-54-16(2227)
सौतिरुवाच। 1-54-17x(261)
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा।
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव॥ 1-54-17(2228)
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम।
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते॥ 1-54-18(2229)
भव स्वस्थमना नाग न हि ते विद्यते भयम्।
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति॥ 1-54-19(2230)
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्॥ 1-54-20(2231)
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल।
यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम॥ 1-54-21(2232)
स संभावय नागेन्द्र मयि सर्वं महामते।
न ते मयि मनो जातु मिथ्या भवितुमर्हति॥ 1-54-22(2233)
वासुकिरुवाच। 1-54-23x(262)
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥ 1-54-23(2234)
आस्तीक उवाच। 1-54-24x(263)
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥ 1-54-24(2235)
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्।
नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन॥ 1-54-25(2236)
सौतिरुवाच। 1-54-26x(264)
ततः स वासुकेर्घोरमपनीय मनोज्वरम्।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्॥ 1-54-26(2237)
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः॥ 1-54-27(2238)
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः॥ 1-54-28(2239)
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः॥ 1-54-29(2240)
स प्राप्य यज्ञायतनं वरिष्ठं
द्विजोत्तमः पुण्यकृतां वरिष्ठः।
तुष्टाव राजानमनन्तकीर्ति-
मृत्विक्सदस्यांश्च तथैव चाग्निम्॥ ॥ 1-54-30(2241)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुःपञ्चाशत्तमोऽध्यायः॥ 54 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-54-4 आचष्ट व्यक्तं कथितवती। अविक्लबा अनाकुला॥ 1-54-12 अभिशापः शापः॥ 1-54-17 आस्तीक इति पादपूरणार्थः सुलोपः॥ 1-54-22 मयि अयमस्मान्मोचयिष्यत्येवरूपो मनःसंकल्पो जातु कदापि मिथ्याऽन्यथा न॥ 1-54-23 ब्रह्म वेदः मातृदेवो भवेति मातुराज्ञकरत्वविधानपरस्तदन्यथाकरणप्रयुक्तो दण्डो मातृशापरूपो ब्रह्मदण्डः॥ 1-54-26 वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः॥ चतुःपञ्चाशत्तमोऽध्यायः॥ 54 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|